लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


तस्यान्वये भूपतिरेष जातः १प्रदीप इत्यागमवृद्धसेवी।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम्॥४१॥

आयोधने कृष्णगति सहायमवाप्य यः क्षत्रियकालरात्रिम्।
धारा शितां रामपरश्वधस्य संभावयत्युत्पलपत्रसाराम् ॥४२॥

अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम्।
प्रासादजालेर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥४३॥

तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव।
शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः॥४४॥

[ ५ ]

सा शूरसेनाधिपति सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम्।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी॥४५॥

नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण।
सिद्धाश्रमं शान्तमिवैत्य सत्त्वेनैसर्गिकोऽप्युत्ससृजे विरोधः॥४६॥

यस्यात्मगेहे नयनाभिरामा कान्तिहमांशोरिव संनिविष्टा।
हयग्रसंरूढतृणाकुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु॥४७॥

यस्यावरोधस्तनचन्दनानां प्रक्षालनाद् वारिविहारकाले।
कलिन्दकन्या २मधुरां गतापि गङ्गोमिसंसक्तजलेव भाति॥४८॥

त्रस्तेन ताक्ष्यत् किल कालियेन मणि विसृष्टं यमुनौकसा यः।
वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं हेपयतीव कृष्णम्॥४९॥

संभाव्य भर्तारममुं युवानं मृदुप्रवालोतरपुष्पशय्ये।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः॥५०॥
----------------------
१. प्रतीप म. १०
२. मथुराम्. म.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book