भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
निर्बन्धसंजातरुषार्थकार्यमचिन्तयित्वा गुरुणाऽहमुक्तः।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहति॥२१॥
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम्।
अभ्युत्सहे संप्रति नोपरोद्धमल्पेतरत्वाच्छतनिष्क्रयस्य ॥२२॥
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो. जगदेकनाथः ॥२३॥
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम्।
गतो वदान्यान्तरमित्ययं मे मा भूत् परीवाद-नवावतारः॥२४॥
स त्वं प्रशस्ते महिते मदीये वसँश्चतुर्थोऽग्निरिवाग्न्यगारे।
द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद् यते साधयितुं त्वदर्थम् ॥२५॥
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत् संगरमग्रजन्मा।
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुवेरात्॥२६॥
वसिष्ठमन्त्रोक्षणजात् प्रभावादुदन्वदाकाशमहीधरेषु।
मरुत्सखस्येव बलाहकस्य गतिविजघ्ने न हि तद्-रथस्य॥२७॥
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम्।
सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः॥२८॥
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः।
हिरण्यमयी कोषगृहस्य मध्ये वृष्टि शशंसुः पतितां नभस्तः॥२९॥
तं भूपतिर्भासुरहेमराशि लब्धं कुबेरादभियास्यमानात्।
दिदेश कौत्साय समस्तमेव१ शृङ्गं सुमेरोरिव वज्रभिन्नम्॥३०॥
-------------------
१. पादम् म.
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः