भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः।
तद्गजालानतां प्राप्तैः सह कालागुरुद्र मैः ॥८१॥
न प्रसेहे सरुद्धार्कमधारावर्षदिनम्।
रथंवर्मरजोऽप्यस्य कुत एव पताकिनीम्॥८२॥
तमीशः कामरूपाणामत्याखण्डलविक्रमम्।
भेजे भिन्नकटनगरन्यानुपरुरोध यैः॥८३॥
कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम्।
रत्नपुष्पोपहारेण च्छायामानर्च पादयोः॥८४॥
इति जित्वा दिशो जिष्णुर्व्यवर्तत रथोद्धतम्।
रजो विश्रामयन् राज्ञां छत्रशून्येषु मौलिषु॥८५॥
स विश्वजितमाजले यज्ञं सर्वस्वदक्षिणम्।
आदानं हि विसर्गाय सतां वारिमुचामिव॥८६॥
सत्त्रान्ते सचिवसखः पुरस्क्रियाभिगुंर्वीभिः-
शमितपराजयव्यलीकान्।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्
राजन्यान् स्वपुरनिवृत्तयेऽनुमेने॥८७॥
ते रेखाध्वजकुलिशातपत्रचिह्न
सम्राजश्चरणयुगं प्रसादलभ्यम्।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु-
मौलिस्रक्च्युतमकरन्दरेणुगौरम्॥८८॥
॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये रघुविश्वजिद्यज्ञानुष्ठानो नाम चतुर्थः सर्गः॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः