भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
यवनीमुखपद्मानां सेहे मधुमदं न सः।
बालातपमिवाब्जानामकाल-जलदोदयः ॥६१॥
संग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः।
शाङ्ग कूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥६२॥
भल्लापवर्जितस्तेषां शिरोभिः श्मश्रुलैर्महीम्।
तस्तार सरधाव्याप्तः स क्षौद्रपटलैरिव॥६३॥
अपनीतशिरस्त्राणाः शेषास्तं ' शरणं ययुः।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥६४॥
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम्।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥६५॥
ततः प्रतस्थे कौवेरी भास्वानिव रघुर्दिशम्।
शरैरुखैरिवोदीच्यानुद्धरिष्यन् रसानिव॥६६॥
विनीताध्वश्रमास्तस्य१ वक्षुतीरविचेष्टनैः।
दुधुवुर्वाजिनः स्कन्धाँल्लग्नकुङ्कुमकेसरान्॥६७॥
तत्र हुणावरोधानां भतृषु व्यक्तविक्रमम्।
कपोल-2 पाटनादेशि बभूव रघुचेष्टितम्॥६८॥
काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः
गजालानपरिक्लिष्टरक्षोटैः सार्धमानताः ॥६९॥
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः।
उपदा विविशुः शश्वप्नोत्सेकाः कोसलेश्वरम्॥७०॥
-----------------------
१. वेङ्कू-, वक्षु-, पा० सिन्धु म.
२. पाटला पा. मृतभर्तृकाणां कपोलपाटनं हूणजातिरितीतिहासविदः।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः