भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
ततः प्रहस्यापभयः पुरन्दरं पुनर्बभाषे तुरगस्य रक्षिता।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिजित्य रघु कृती भवान्॥५१॥
स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाण: सशरं शरासनम्।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षण' विडम्बितेश्वरः ॥५२॥
रघो१रवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ॥५३॥
दिलीपसूनोः स बृहद् भुजान्तरं प्रविश्य भीमासुरशोणितोचितः।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥५४॥
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ।
भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्न निचखान सायकम्॥५५॥
जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजम्।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव॥५६॥
तयोरुपान्तस्थितसिद्धसैनिक गरुत्मदाशीविषभीमदर्शनैः।
बभूव युद्धं तुमुलं जयषिणोरधोमुखेरूध्वमुखश्च पत्त्रिभिः॥५७॥
अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः।
शशाक निवपयितुं न वासवः स्वतश्च्युतं वह्निमिवाभिरम्बुदः॥५८॥
ततः प्रकोष्ठे हरिचन्दनाङ्कित प्रमथ्यमानार्णवधीरनादिनीम्।
रघुः शशाङ्कार्घमुखेन पत्त्रिणा शरासनज्यामलुनाद् विौजसः॥५९॥
स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रवलस्य विद्विषः।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे॥६०॥
-----------------------
१. अवष्टम्भः स्वर्णम्। ‘अवष्टम्भः सुवर्णेऽपी'-ति विश्वः म.
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः