भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः।
अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभवम् ॥२१॥
पितुः प्रयत्नात् स समग्रसंपदः शुभैः शरीरावयवदिने दिने।
पुपोष वृद्धि हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥२२॥
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ॥२३॥
रथाङ्गनाम्लोरिव भावबन्धनं वभूव यत् प्रेम परस्पराश्रयम्।
विभक्तमप्येकसुतेन तत् तयोः परस्परस्योपरि पर्यचीयत ॥२४॥
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम्।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुद तेन ततान सोऽर्भकः ॥२५॥
तमङमारोप्य शरीरयोगजः सुखनिषिञ्चन्तमिवामृतं त्वचि।
उपान्तसमीलितलोचनो नृपश्चिरात् सुतस्पर्शरसज्ञतां ययौ ॥२६॥
अमंस्त चानेन परायजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम्।
स्वमूतभेदेन गुणाग्रयर्वातना पतिः प्रजानामिव सर्गमात्मनः॥२७॥
स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रः सवयोभिरभ्वितः।
लिपेर्यथावद् ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत्॥२८॥
अथोपनीतं विधिवद् विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम्।
अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति॥२६॥
धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः।
ततारे विद्याः पवनातिपातिभिर्दिशो हरिभिर्हरितामिवेश्वरः॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः