भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत्॥२१॥
ज्ञाने मौनं क्षमा शक्ती त्यागे श्लाघाविपर्ययः।
गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव॥२२॥
अनाकृष्टस्य विषयैविद्यानां पारदश्वनः।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसी विना॥२३॥
प्रजानां विनयाधानाद् रक्षणाद् भरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥२४॥
स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये।
अप्यर्थकामौ तस्याऽऽस्तां धर्म एव मनीषिणः॥२५॥
दुदोह ग स यज्ञाय सस्याय मघवा दिवम्।
संपविनिमयेनोभो दधतुर्भ वनद्वयम्॥२६॥
न किलानुययुस्तस्य राजानो रक्षितुर्यशः।
व्यावृत्ती यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता॥२७॥
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम्।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता॥२८॥
तं वेधा विदधे ननं महाभूतसमाधिना।
तथाहि सर्वे तस्यासन् परार्थेकफला गुणाः ॥२९॥
स वेला-वप्र-वलयां परिखीकृतसागराम्।
अनन्यशासनामुर्वी शशासकपुरीमिव॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः