भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥७१॥
श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः।
ययावनुघातसुखेन मार्ग स्वेनेव पूर्णेन मनोरथेन॥७२॥
तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकशिताङ्गम्।
नेत्रैः पपुस्तृप्तिमनाप्नुवभिर्नवोदयं नाथमिवौषधीनाम्॥७३॥
पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः।
भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेधुरमाससञ्ज॥७४॥
अथ ‘नयनसमुत्थं ज्योतिरत्रेरिव द्यौः।
सुरसरिदिव तेजो वह्निनिष्ठ्य तमेशम्।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः॥७५॥
॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये सुदक्षिणागर्भाधानो नाम द्वितीयः सर्गः॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः