भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
एतावदुक्त्वा विरते मृगेन्द्र प्रतिस्वनेनास्य गुहागतेन।
शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव॥५१॥
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनस्प्युवाच।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः॥५२॥
क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः।
राज्येन किं तदविपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा॥५३॥
कथं नु शक्योऽनुनयो महर्षेविश्राणनाच्चान्यपयस्विनीनाम्।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥५४॥
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः।
न पारणा स्याद् विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः॥५५॥
भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ।
स्थातुं नियोक्तुर्नहि शक्यमग्ने विनाश्य रक्ष्यं स्वयमक्षतेन॥५६॥
किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः।
एकान्तविध्वंसिषु मविधानां पिण्डेष्वनास्था खलु भौतिकेषु॥५७॥
संवन्धमाभाषणपूर्वमाहुवृत्तः स नौ संगतयोर्वनान्ते।
तद् भूतनाथानुग नार्हसि त्वं सम्वन्धिनो मे प्रणयं विहन्तुम्॥५८॥
तथेति गामुक्तवते दिलीपः सद्य:प्रतिष्टम्भविमुक्तबाहुः।
स न्यस्तशस्त्रो हरये स्वदेहमुपानयत् पिण्डमिवामिषस्य ॥५९॥
तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम्।
अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः