भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
विशीर्णतल्पाशतो निवेशः पर्यस्तसाल: प्रभुणा विना मे।
विडम्बयत्यस्तनिमग्नसूर्य दिनान्तमुग्रनिलभिन्नमेघम्॥११॥
निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम्।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः॥१२॥
आस्फालितं यत् प्रमदाकराग्रॅमृदङ्गधीरध्वनिमन्वगच्छत्।
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीघकाणाम्॥१३॥
वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः।
प्राप्ता दवोल्काहतशेषवर्हाः क्रीडामयूरा वनवहिणत्वम्॥१८॥
सोपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान् सरागान्।
सद्यो हतन्यकुभिरस्रदिग्धं व्याघ्रः पदं तेषु निधीयते मे॥१५॥
चित्रद्विपा:१ पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः।
नखाङ्कुशाघातविभिन्नकुम्भाः : संरब्यसिंहप्रहृतं वहन्ति॥१६॥
स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम्।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः॥१७॥
कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाकुरेषु।
त एव मुक्तागुणशुद्धयोऽपि हर्येषु मूच्र्छन्ति न चद्रपादाः॥१८॥
अवज्र्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः।
वन्यैः पुलिन्दैरिव वानरस्ताः क्लिश्यन्त उद्यानलता मदीयाः॥१९॥
रात्रावनाविष्कृतदीपभासः ,कान्तामुखश्रीवियुता दिवापि।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूप२ प्रसरा गवाक्षाः॥२०॥
------------------------------
१. आलेख्य-चित्रिता द्विपा इत्यर्थः।
२. धूम० म.
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः