लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


पञ्चवटयां ततो रामः शासनात् कुम्भजग्मनः।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥३१।

रावणावरजा तत्र राघवं मदनातुरा।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥३२॥

सा सीतासन्निधावेव तं वव्र कथितान्वया।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः॥३३॥

कलत्रवानहं भद्रे१ कनीयांसं भजस्व मे।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम्॥३४॥

ज्येष्ठाभिगमनात् पूर्व तेनाप्यनभिनन्दिता।
साऽभूद् रामाश्रया भूयो नदीवोभयकूलभाक्॥३५॥

संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम्।
निवातस्तिमित वेलां चन्द्रोदय इवोदधेः ॥३६॥

फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम्।
मृग्या परिभवो व्याघ्रयामित्यवेहि त्वया कृतम्॥३७॥।

इत्युक्त्वा मैथिली भर्तरङ्ग निविशतीं भयात्।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत॥३८॥

लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम्।
शिवाघोरस्वनां पश्चाद् बुबुधे विकृतेति ताम्॥३९॥

पर्णशालामथ क्षिप्रं विकष्टासिः प्रविश्य सः।
वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत्॥४०॥
--------------------------
१. बाले म.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book