|
भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
|
|||||||
सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नसुक्तासनया गृहागतः।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द परिप्लवनेत्रया नृपः॥११॥
कुमारभृत्याकुशलैरनुष्ठिते भिषभिराप्तै रथ - गर्भभर्मणि।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव॥१२॥
ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्य गैः सूचितभाग्यसंपदम्।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरवार्थमक्षयम्॥१३॥
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणावर्तविरग्निराददे।
बभूव सवं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम्॥१४॥
अरिष्ट्शय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।
निशीथदीपाः सहसा हतत्विषो वभूवुरालेख्यसमर्पिता इव॥१५॥
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम्।
अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ॥१६॥
निवांतपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिवतः सुताननम्।
महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रवभूव नात्मनि ॥१७॥
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ।१८॥
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम्।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि॥१६॥
न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद् यं सुतजन्महर्षितः।
ऋणाभिधानात् स्वयमेव केवलं तदा पितृणां मुमुचे स बन्धनात्॥२०॥
|
|||||
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः

i 









