लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


सप्तदशः सर्गः

अतिथि नाम काकुत्स्थात् पुत्र प्राप कुमुद्वती।
पश्चिमाद् यामिनीयामात् प्रसादमिव चेतना॥१॥

स पितुः पितृमान् वंशं मातुश्चानुपमद्युतिः।
अपुनात् सवितेवोभौ मार्गावुत्तरदक्षिणौ॥२॥

तमादौ कुलविद्यानामर्थमर्थविदां वरः।
पश्चात् पार्थिवकन्यानां पाणिमग्राहयत् पिता॥३॥

जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः।
अमन्यतैकमात्मानमनेकं वशिनावशी॥४॥

सकुलोचितमिन्द्रस्य साहायकमुपेयिवान्।
जघान समरे दैत्यं दुर्जयं तेन चावधि॥५॥

तं स्वसा नागराजस्य कुमुदस्य कुमुवती।
अन्वगात् कुमुदानन्दं शशाङ्कमिव कौमुदी॥६॥

तयोदिवस्पतेरासीदेकः सिंहासनार्धभाक्।
द्वितीयापि सखी शच्या: पारिजातांशभागिनी॥७॥

तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः।
स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः॥८॥

ते तस्य - कल्पयामासुरभिषेकाय शिल्पिभिः।
विमानं नवमुवेदि चतुःस्तम्भप्रतिष्ठितम् ॥९॥

तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम्॥१०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book