| 
			 भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
  | 
        
		  
		  
		  
          
			 
			  | 
     |||||||
 श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
 अनन्यजानेः सैवासीद् यस्माज्जायाहिरण्मयी ॥६१॥ 
 
 विधेरधिकसंभारस्ततः प्रववृते मखः।
 आसन् यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः॥६२॥ 
 
 अथ प्रचेतसोपज्ञं रामायणमितस्ततः। 
 मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ१ ॥६३॥ 
 
 वृत्तं रामस्य वाल्मीके: कृतिस्तौ किन्नरस्वनी। 
 कि तद् येन मनो हर्तुमलं स्यातां न शृण्वताम्॥६४॥ 
 
 रूपे गीते च माधुर्यं तयोस्तज्ज्ञनिवेदितम्। 
 ददर्श सानुजो रामः शुश्राव चे कुतूहली॥६५॥ 
 
 तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ। 
 हिमनिष्यन्दिनी प्रातनिर्वातेव, वनस्थली॥६६॥ 
 
 वयोवेषविसंवादी रामस्य च तयोस्तदा। 
 जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत॥६७॥ 
 
 उभयोर्न तथा लोकः प्रवीण्येन विसिष्मये। 
 नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा॥६8॥ 
 
 गेये को नु विनेता व कस्य चेयं कृतिः कवेः। 
 इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकि मशंसताम्॥६९॥ 
 
 अथ सावरजो रामः प्रचेतसमुपेयिवान्। 
 ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत्॥७०॥ 
 ------------------------------------
 १. एतेन स्थितमिदं यद् वाल्मीकिरामायणोत्तरकाण्ड कालिदासोऽध्यगीष्ट।
 			
						
  | 
				|||||
- प्रथमः सर्गः
 - द्वितीयः सर्गः
 - तृतीयः सर्गः
 - चतुर्थः सर्गः
 - पञ्चमः सर्गः
 - षष्ठः सर्गः
 - सप्तमः सर्गः
 - अष्टमः सर्गः
 - नवमः सर्गः
 - दशमः सर्गः
 - एकादशः सर्गः
 - द्वादशः सर्गः
 - त्रयोदशः सर्गः
 

 
i                 







			 

