लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0

 

रघुवंशम्

 

प्रथमः सर्गः


वागर्थाविव१ संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥१॥

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः।
तितीषुर्दुस्तरं मोहादुडुपेनास्मि सागरम्॥२॥

मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम्।
प्रांशुलभ्ये फले लोभादुबाहुरिव वामनः॥३॥

अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः।
मणौ वज्रसमुत्कीर्ण सूत्रस्येवास्ति मे गतिः॥४॥

सोऽहमा १जन्मशुद्धीनामा २फलोदयकर्मणाम्।
३आसमुद्रक्षितीशानामा ४नाकरथवर्त्मनाम्॥५॥

५यथाविधिहुताग्नीनां ६यथाकामाचतार्थनाम्।
७यथापराधदण्डानां ८यथाकालप्रबोधिनाम्॥६॥

९त्यागाय संभृतार्थानां १०सत्याय मितभाषिणाम्।
११यशसे विजिगीषूणां १२प्रजायै गृहमेधिनाम्॥७॥

१३शैशवेऽभ्यस्तविद्यानां १४यौवने विषयैषिणाम्।
१५वार्द्धके मुनिवृत्तीनां १६योगेनान्ते तनुत्यजाम्*॥८॥

रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्॥
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः॥९॥
----------------------------
१. पद्यमिदं प्रक्षिप्तमिति दक्षिणात्याः।
* एते सर्वे गुणा रघावेव दशिता इति रघुरेवात्र नायकः। अजप्रभृति-ष्वेतेषां क्रमेण ह्रासात् तेषां रघुमाहात्म्यपर्यवसायित्वमेव व्यतिरेकविधया। मानुषवध्यस्य रावणस्य दशरथेनापि हन्तुं शक्यत्वे रामाद्यवतारः पुरुषदौर्बल्यसूचनमेव।

Next...

प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book